पूर्वम्: २।४।५९
अनन्तरम्: २।४।६१
 
सूत्रम्
इञः प्राचाम्॥ २।४।६०
काशिका-वृत्तिः
इञः प्राचाम् २।४।६०

गोत्रे य इञ् तदन्ताद् युवप्रत्ययस्य लुग् भवति। गोत्रविशेषनं प्राग्ग्रहनम्, न विकल्पार्थम्। पान्नागारेरपत्यं युवा। यञिञोश्च ४।१।१०१ इति फक्, तस्य लुक्। पान्नागारिः पिता। पान्न्नगारिः पुत्रः। मन्थरैषणिः पिता। मान्थरैषणिः पुत्रः। प्राचाम् इति किम्? दाक्षिः पिता। दाक्षायणः पुत्रः।
न्यासः
इञः प्राचाम्। , २।४।६०

अन्यत्र प्राग्ग्रहणं विकल्पार्थं दृष्टम्, अत इहापि विकल्पो मा विज्ञायीत्याह-- "गोत्रविशेषणम्" इत्यादि॥
बाल-मनोरमा
इञः प्राचाम् १०६८, २।४।६०

इञः प्राचाम्। "इञः" इति पञ्चमी। प्रत्ययत्वात्तदन्तग्रहणम्। "ण्यक्षत्रिये"त्यतो यूनि लुगित्यनुवर्तते। इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः। अर्थादिञो गोत्रार्थकत्वं लभ्यते। तदाह--गोत्रे य इञ्तदन्ताद्युवप्रत्ययस्य लुगिति। प्राचामिति गोत्रविशेषणं, न तु विकल्पार्थं, व्याख्यानात्। तदाह--तच्चेद्()गोत्रं प्राचां भवतीति। प्राग्देशीयमित्यर्थः। पन्नागारस्येति। प्राग्देशे पन्नागारो नाम कश्चित्, तस्य गोत्रापत्यमित्यर्थे "अत इ"ञिति इञि पान्नागारिः। पान्नागारेरपत्यं युवेत्यर्थे पान्नागारिशब्दात् "यञिञोश्चे"ति फक्। तस्यानेन लुक्। एवंच पन्नागरस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमित्यर्थः। प्राचां किमिति। गोत्रविशेषणं किमर्थमित्यर्थः। दाक्षिः पिता, दाक्षायणः पुत्र इति। दक्षस्य गोत्रापत्यं दाक्षिः। "अत इञ्"। तस्यापत्यं युवादाक्षायणः। "यञिञोश्चे"ति फक्। तस्य लुङ् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाऽभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थंकादिञः परत्वम्।